किं नाम अमृताभियानम् ?
अमृतमहोत्सवः इति निर्दिष्टं भारतस्वतन्त्रतायाः पञ्चसप्ततितमं वार्षिकोत्सवं पुरस्कृत्य संस्कृतभारती USA, Canada, UK इत्येतैः कार्यकर्तृभिः इदम् अमृताभियानम् उपकल्पितम् आसीत् । अस्य महाकार्यक्रमस्य अङ्गतया बहुविधाः उपक्रमाः आरब्धाः आसन् ।
आदावेव प्रश्नः भवेत् “कुतः भारतदेशस्य स्वातन्त्र्य-महोत्सवः अमेरिका केनडा इङ्ग्लाण्ड् इत्येतेषु देशेषु वर्तमानस्य भाषासेवापर-सङ्घटनस्य अभियानोद्देश्यः भवति ?” इति । सनातनस्य विश्वप्राणभूतस्य धर्मस्य आलवालं भारतं सहस्राधिकानि वर्षाणि परेषां क्रूराणां धनलोभिनां महत्त्वाकाङ्क्षिणाम् आक्रान्तॄणां पालने बद्धम् अभवत् । तेन धर्मस्य महती ग्लानिः सञ्जाता । भारतस्य विश्वमङ्गलरचना-क्षमताऽपि बन्दित्वबाधं गता अभवत् । स्वातन्त्र्यप्राप्तेः परमपि भारतस्य वास्तविकचरित्रस्य परिचयः, तस्य आत्मभूतस्य धर्मस्य अनुभवः वा भारतीयैरेव न प्राप्तः इव दशाब्दानां कालः वृथा व्यतीतः ।
दिष्ट्या सा स्थितिः परिवर्तमाना दृश्यते अधुना । भारते तद्बहिश्च वर्तमानाः वयं भारतमूलाः सन्ततयः प्रपञ्चज्ञाः विविधक्षेत्रेषु निपुणाश्च जाताः । स्वप्रयत्नैः ऋषीणामाशीर्वादबलेन च विश्वस्य आदरपात्रं गौरवास्पदञ्च अभवाम वयम् । तादृशाः वयम् अस्माकं चरित्रं परम्पराञ्च जिज्ञासमानाः संस्कृतेः रक्षणकार्ये यावच्छक्ति यतामहे । अयम् अमृतमहोत्सवः “अमृतस्य पुत्राः” इति वेदेन आहूयमानानां सनातनधर्म-अनुयायिनां भारतमूलानाम् अस्माकं समेषामपि हृदयानि फुल्लयति । संस्कृतिपोषणकार्यं प्रभाववत्तरं कर्तुम् अस्मान् प्रेरयति । अतः वयं सर्वे सुरभारतीसमुपासकाः अस्य पुण्यावसरस्य आचरणे भृशम् अमोदामहि ।
अस्माकं चिन्तनम् एतेषु विषयेषु प्रवर्तेत - भारतस्य विशिष्टं तत्त्वं किम् ? भारतस्य कीदृशं वैभवम् आसीत् यस्य लोलत्वेन बर्बराः वारं वारम् एतां पुण्यभूमिम् आक्रान्तुं प्रायतन्त ? कथं कुतश्च अस्याः धर्मधरण्याः दास्यत्वं सम्प्राप्तम् ? के ते तस्याः वीरपुत्राः शूरपुत्र्यश्च आसन् ये मातुः दास्यबाधाम् असहमानाः, सत्सु बहुषु कष्टेषु प्राणान् अपि पणीकृत्य भौतिकं वैचारिकं च युद्धम् अकुर्वन् ? काः तेषां गाथाः ? के तासामुपदेशाः ? कथं भारतम् अतः परं सर्वदा स्वतत्रः देशः तिष्ठेत्, भविष्यत्काले च पुनः कदापि पारतन्त्र्यस्य अन्धकारं न प्रविशेत् ? कथं पूर्ववैभवं पुनः सम्प्राप्येत ? तदर्थम् अस्माभिः किं कार्यम् ? इत्येवं विचारमथनपुरस्सरम् अध्ययनं भवेत् । अस्माकं पठनस्य पाठनस्य च एताः गाथाः, एते विचाराः, एतदन्तर्मथनम्, इदं तपश्च भूमिकाः भवेयुः।
यद्यपि स्थूलरीत्या वयं सर्वेऽपि भारतस्य चरित्रं जानीमः तथापि बहवः वीराः तेषां शौर्यगाथाश्च अस्मासु बहुभिः अज्ञाताः सन्ति । इदं सर्वं लक्षीकृत्य एतदभियानस्य घोषवाक्यम् “अमृताभियानम् -- अमरवीरस्मरणम्” इति कल्पितम् अवर्तत । तदङ्गत्वेन भाषणमालेत्यादीनि कार्याणि आयोजितानि आसन् ।
अमृताभियाने व्यक्तिशः कर्तुं योग्यानि कानिचन कार्याणि -
भाषणमाला-श्रवणम्
भारतभारती-पुस्तकानां पठनम्
शिवभारतादीनां ग्रन्थानां पठनम्
देशभक्तानां पुस्तकानां वितरणम्
वीरगाथानां लेखनम्
वीरगाथानाम् अनुवादः
पठितं लिखितं चेत्यधिकृत्य सहपाठिभिः चर्चा
पठितं लिखितं चेत्यधिकृत्य भाषणानि
रूपकाणां लेखनम्
रूपकाणां प्रदर्शनम्
देशभक्तिगीतानां वर्गे भागवहनम्
देशभक्तिगीतवर्गस्य प्रचारः
पद्यरचना, गीतरचना
उपरितनेषु सर्वेषु कार्येषु अन्येषां प्रेरणम्, योजनम् च
भारतोन्नतिविषयकं चिन्तनम्, चर्चा च
भारतसर्वकारस्य अमृतमहोत्सवः इति जालपुटम् अत्र अधिगन्तुं शक्यम् ।