पद्य-गीत-रचना

पञ्चसप्ततिवर्षाणि समतीतानि सम्प्रति।

विमुक्तिं ननु सम्प्राप्य विधर्मीयदुराग्रहात्॥१॥


असङ्ख्यकाः सुवीराश्च प्रसिद्धाश्चाप्यगोचराः।

सर्वे स्वातन्त्र्यसङ्ग्रामे पाविताः सहभागिनः॥२॥


अहो संस्कृतभारत्याः कार्यकर्तृगणेन हि।

समग्रामेरिकादेशे कार्यक्रमाः सुयोजिताः॥३॥


सुलेखनाभियानेन काव्यपाठेन भाषणैः।

पुस्तकाध्ययनेनापि गीतवर्गसुचालनात्॥४॥


विलक्ष्य पुण्यभूमेश्च भारतस्य स्वतन्त्रताम्।

अथामृताभियानेनामरवीराः पुनःस्मृताः॥५॥

------ राधाकृष्णः

सर्वभारतमूलानां भाषा भवति संस्कृतम् ।

तद्भानं सर्वतोव्याप्तं कारयेमाऽमृतोत्सवे ॥१॥


वीरगाथाभिरापूर्णां धीरकार्यसुदर्शनाम् ।

राष्ट्रभावानुविद्धाञ्च तपोधनसुवर्धिताम् ॥२॥


पुण्यचारित्रविभवां भारतैक्यप्रकाशिकाम् ।

सुभाषितसमृद्धां वै चमत्कारसुभूषिताम् ॥३॥


पाठयेमाऽमृतां वाणीं सर्वसद्गुणसम्भवाम् ।

अमृतोत्सववर्षेऽस्मिन् भारतैश्वर्यबोधिकाम् ॥४॥

----- प्रेमकुमारः

अमृतेयं देववाणी सेव्यतामयि! भारत!

अमलबोधतरङ्गिणी विजयोत्सवा च त्वया सदा ॥

पूर्वजैर्या पूजिता शुभकाम्यया परिपोषिता

सत्यसन्धैर् नित्यमेषा शुद्धमतिभिश् चाऽऽदृता ॥

वागियं खलु कामदोग्ध्री लोकसङ्ग्रहकारिणी

सा हि विलसति सर्वतः सफलप्रभावा भारती ॥१॥

भाषया ह्यमुया च परया शास्त्रसंपद् वर्धिता

तत्त्वविद्भिः कविभिरतुलैश् शब्दजगती विस्तृता ॥

पठनपाठनपरतया कुरु बोधचक्रप्रवर्तनं

बुद्धिमथितात् ग्रन्थशरधेर् उद्धरेर् ज्ञानामृतम् ॥२॥

वीरमाता भारताम्बा विश्वगुरुतां पुनः प्राप्यात् ।

तत्सुसन्ततिरग्रगण्या सर्वदिग्विजयिनी भूयात् ।

भुवनमङ्गलकरणदक्षो धर्म आर्षो दीव्यतात् ।

सर्वदा वर्तस्व हृदये प्रार्थनामेतां वहन् ॥३॥

---- प्रेमकुमारः

अमृतोत्सवेऽधुना लसति भव्यकेतनम्

राष्ट्रभक्तमोदनं वर्णत्रयभूषितम् ....

पश्यतो ममाऽस्ति देव! कामना शुभा प्रभो!

दयया परिपूरय तां ... मङ्गलप्रदायक !


ध्यानज्ञानक्रियाशील-पौरगण-प्रपूरिता

त्यागभूतिभासुरा पुण्यभावबन्धुरा ।

विविधकलानैपुणीयुताद्भुता सुदर्शना

भारतावनी सदा विराजतां सुपुष्कला ॥१॥


भारतीयगौरवं वर्धतां निरन्तरम्

सर्वदेशविश्रुतं यशो भवतु तच्चिरम् ।

धर्मचक्रमकुण्ठितं भूतले प्रवर्तताम्

श्रेयोमयमनातुरं लोकजीवनं क्रियात् ॥२॥

---- प्रेमकुमारः


नितरान्निरता भायां भारतास्ते प्रकीर्तिताः।

स्वभावो भारतानां हि कथ्यते भारतीयता॥१॥


सा भारतीयता काचिदुत्कृष्टा सुमनोदशा।

या पूर्वजन्मनो नूनं सुकृतेनैव लभ्यते॥२॥


मार्गो धर्मस्य यैर्नित्यं चर्यते सत्यनिष्ठया।

नित्यदा तैर्यथाभूता दर्श्यते भारतीयता॥३॥


जन्मना नैव निर्दिष्टा पौरत्वेन न कर्हिचित्।

देशकालपरिच्छेदान्निःसन्देहं विवर्जिता॥४॥


भारतास्ते सुतिष्ठन्ति यत्र तत्रैव भारतम्।

मानसे भारतानाञ्च भारतं हि प्रवर्तते॥५॥


धर्मसंस्कृतिभाषाणां मध्ये स्याद्भारतस्य हि।

अविनाभावसम्बन्धः स्वतःसिद्धोऽनिशं ध्रुवः॥६॥


पवित्रं भारतं धन्यं धन्यास्ते भारताः सदा।

विधर्मीयैस्त्वनागम्या धन्या सा भारतीयता॥७॥


सुगन्धिकुन्तलाम्बायाः प्रपौत्रेण तु सादरम्।

भारताश्च विमृश्यन्ते भारतं भारतीयता॥८॥

---- राधाकृष्णः

(सम्भाषणसन्देशः जनवरी २०२२ मध्ये पूर्वं प्रकाशिता इयं रचना)