वीरगाथाः

'अमृताभियाने वीरगाथाः' इति नाम्ना लेखनाभियानम् अपि अमृताभियानस्य कार्यक्रमेषु अन्यतमः । संस्कृतभारत्याः कार्यकर्तृभिः पुनरुक्ताः/अनूदिताः वीरयोद्धॄणां काश्चन गाथाः अधः पठ्यन्ताम् ।

रानी गाइदिन्ल्यू - नागा-स्वतन्त्रता-योद्ध्री (रुचिलोहनी, San Jose, CA)

रानी गाइदिन्ल्यू इत्येतस्या: जन्म: पञ्चदशोत्तर-नवदशशततमे वर्षे, जनवरी-मासे, षड्विंशत्यां दिनाङ्के (1915, 26 जनवरी), तत्कालीनस्य मणिपुरस्य लुआंगकाओ ग्रामे रोङ्गमे नाम्ना जेलियांगरोंग-नागा-जनजातीय समुदाये अभवत् । तस्याः ग्रामे ग्रामस्य समीपे वा कोऽपि विद्यालयः नासीत् अतः पारम्परिकरीत्या तस्याः शिक्षणं न जातम् ।


तस्या: पितृव्यपुत्रः हाइपो जादोनांग: ब्रिटिशकालीन-मणिपुरप्रदेशस्य प्रसिद्धः राजनैतिक-कार्यकर्ता आसीत् । तेन नागा सम्प्रदायस्य उत्कर्षार्थं ‘हेराका’ नाम्ना एकं धार्मिकम् आन्दोलनम् अचाल्यत । ‘हेराका’ इति पदस्य अर्थ: ‘शुद्ध:’ इति । आङ्ग्लेयशासनस्य प्रभावेन उत्तरपूर्वक्षेत्रस्य आदिमजातीयानां समाजे क्रिस्त-धर्मस्य विस्तारः प्रचलित आसीत् । धर्मपरिवर्तनेन आदिमजातीया संस्कृति: परम्परा च विलुप्ता दूषिता च भवेत् इति कारणेन एव ‘हेराका’ इति नाम । कालक्रमेण एतत् एव धार्मिकम् आन्दोलनं ब्रिटिशसाम्राज्यस्य उन्मूलनाय राजनैतिकसंघर्षस्य रूपं स्वीकृतम् ।


सप्तविंशत्यधिक-नवदशशततमेवर्षे (1927) त्रयोदशवर्षीया रानी गाइदिन्ल्यू अपि तस्मिन् आन्दोलने भागं स्वीकृतवती । तदा एव तस्याः सामाजिक-धार्मिक-राजनैतिक जीवनस्य आरम्भ: जातः । ‘वयं मुक्ताः, श्वेत-जनाः अस्माकं शासनं न कुर्युः’ इति तस्या: सन्देश आसीत् । एकत्रिंशाधिक-नवदशशततमेवर्षे (1931) ब्रिटिशशासकाः जादोनांगं प्रतिपक्षिणं ज्ञात्वा तम् अघातयन्त । तदारभ्य सप्तदश (17) वर्षीया गाइदिन्ल्यू स्वयं हेराका इत्याख्यस्य स्वतन्त्रता-आन्दोलनस्य नेतृत्वं स्वीकृतवती । आङ्ग्ला: तस्या: कारावासाय उन्मत्ताः आसन् यतः सा तेषां क्लेशस्य कारणमासीत् । १९३२ तमे वर्षे तस्याः सैन्यै: असम-राइफल्स इति गणस्य विरुद्धं शस्त्राक्रमणं कृतम् । तदा ब्रिटिशजनाः तस्याः अन्वेषणम् आरभन्त । तस्याः अन्वेषणे साहाय्यं कृतवद्भ्यः पारितोषिकं अपि घोषितम् ।


तस्याः शौर्यं जानानाः आङ्ग्लशासकाः मैक्डोनल्ड् नामकस्य सेनाध्यक्षस्य नेतृत्वे किञ्चन विशिष्टं सेनादलं प्रेषितवन्तः तस्याः बन्धनार्थम् । रानी तस्याः अनुयायिनः च पुलोमी-ग्रामे सन्तीति श्रुत्वा सैनिकाः तद्विपरीतदिशि गताः । रानी अनुयायिनः च मिथ्यासुरक्षाभावेन ग्रस्ताः अभवन् । द्वात्रिंशाधिक-नवदशशततमस्य वर्षस्य अक्टोबर्-मासस्य सप्तदशे दिनाङ्के (1932, 17 अक्टोबर्) आङ्ग्ला: पुलोमी-ग्रामे अकस्मात् आक्रमणं कृत्वा रानीम् अनुयायिनः च विना प्रतिरोधम् अबन्धयन् । पादचारेण एव तां प्रथमं कोहिमा-नगरं अनन्तरं इम्फाल-नगरं नीतवन्तः ते । तत्र सा आजीवन-कारावासेन आधर्षिता । तदनन्तरम् चतुर्दश वर्षाणि यावत् कारागारे जीवनं यापितं तया । त्रयस्त्रिंशाधिकनवदशशततमात् वर्षादारभ्य (1933) सप्तचत्वारिंशाधिकनवदशशततमवर्षपर्यन्तं (1947) गौहाटी, शिलोङ्ग्, आइजाल् तुरा च नगराणां कारागारेषु बन्धनम् अनुभूतं वीरया रान्या ।


दीर्घकारावासकालस्य कारणात् रानी अत्यन्ता लोकप्रिया अभवत् । तस्या: मोचनार्थं आङ्ग्ल-देशस्य लोकसभा मध्ये अपि चर्चा जाता । अन्ततः १९४७ तमे वर्षे भारतस्य स्वतन्त्रतायाः अनन्तरं ब्रिटिशशासकैः रानी अपि कारागारात् मोचिता । तया बहि: आगत्य मुक्तजीवने अग्रे अपि लोककल्यानार्थम् एव कार्यं कृतम् ।


1993 तमे वर्षे अष्टसप्ततिः वर्षीया सा प्राणान् अत्यजत् । अद्यापि हेराका-दृढावलम्बका: तां आदरेण स्मरन्ति ।


1972 तमे वर्षे स्‍वतन्त्रतासेनानीताम्रपत्रेण, 1982 तमे वर्षे पद्मभूषणेन, 1983 तमे वर्षे विवेकानंदसेवासम्‍मानेन, 1996 तमे वर्षे बिरसामुंडापुरस्‍कारेण च सम्मानिता सा आजीवनं शूरवीरा इति प्रख्याता चासीत् । 1996 तमे वर्षे भारतीय-पत्रविभागेन तस्याः एका स्मृतिमुद्रिका अपि प्रकाशिता । भारतीयसर्वकारेण अपि इतिहासस्य पञ्चानां प्रतिष्ठितानां महिलानां कृते स्त्रीशक्ति: इति पुरस्कारस्य आरम्भ: कृत:, तेषु 2000 तमे वर्षे रानी गाइदिन्‍ल्‍यू अपि अन्तर्भूता । 2015 तमे वर्षे तस्या: स्मृतौ मुद्रा, नाणकम् अपि प्रकाशितम् ।


एतादृशी धर्मरक्षिका आसीत् रानी गाइदिन्ल्यू । तस्याः देशभक्तिः तथा स्वातन्त्र्यसमरे योगदानं अविस्मरणीयम् एव ।

******************


(पुनःकथनम् - रुचिलोहनी, San Jose, CA)

राज्ञी अब्बक्का चौता (विजयाभट्, Fremont, CA)

भारतमातु: स्वतन्त्रतारक्षणाय सम्मानरक्षणाय च स्वस्य प्राणान् एव पणीकृत्य शत्रूणाम् अभिमुखं युद्धं कृतवतीषु महिलासु राज्ञी अब्बक्का अन्यतमा।

राज्ञी अब्बक्का कर्णाटकराज्ये मङ्गलूरुनगरस्य समीपे उल्लालः इति ग्रामे जैनकुटुम्बे जन्म प्राप्तवती। तदानीं चौतराज: तिरुमलः अब्बक्कायाः पितृव्यः उल्लालस्य शासनं करोति स्म । तेषां वंशस्य अब्बक्का उत्तराधिकारिणी आसीत् इति कारणतः तां बाल्यकाले सर्वाः विद्याः बोधितवान् राजा तिरुमलरायः। सा शस्त्रचालने शासनाधिविषयेषु च नैपुण्यं प्रदर्शितवती च।

राज्ञी अब्बक्कायाः विवाह: राज्ञा तिरुमलेनैव लक्ष्मप्प-अरसेण सह कारित:। लक्ष्मप्प-अरसः मङ्गलूरुसमीपे एव बङ्गनाम्नः जनपदस्य राजा आसीत्।

परन्तु तयोः विवाहः चिरस्थायी न जाता। राज्ञः कुहकं ज्ञात्वा राज्ञी अब्बक्का राजानं लक्ष्मप्पं त्यक्त्वा उल्लालं प्रत्यागत्य तत्र शासनं कर्तुम् आरब्धवती। क्रुद्ध: राजा लक्ष्मप्प: अग्रे वैरनिर्यातनं कर्तुं पुर्तगालपक्षस्य साहाय्यं कृतवान्।

१५२६ तमे वर्षे पुर्तगालदेशीयाः मङ्गलूरुनगरम् आक्रम्य उल्लालम् अपि आक्रान्तुं चिन्तयन्त: आसन्। एतत् ज्ञातवती राज्ञी अपि युद्धाय सन्नद्धा एव आसीत्। राज्ञी स्वस्या: वचनै: आचरणै: च: अस्मिन् युद्धे तस्या: साहाय्यार्थं समीपस्थानां नायकानाम् ऐक्यम् अपि सम्पादितवती।

१५५५ तमे वर्षे पुर्तगालदेशीयाः राज्ञीं करदानार्थम् आदिष्टवन्त:। परं राज्ञ्या धैर्येण अयम् आदेशः तिरस्कृतः। तेन कुपिताः पुर्तगालदेशीयाः उल्लालं प्रति बृहतीं सेनां प्रेषितवन्त:। तस्मिन्नवसरे एड्मिरल्-डान् आल्वारो ड सिल्वेर: सेनाया: अग्रेसर: आसीत्। परन्तु राज्ञी अब्बक्का धैर्यच्युता न जाता। सेनाया: साहाय्येन पुर्तगालसैनिकान् पराजितवती।

रोषरुषिता: पुर्तगालदेशीयाः १५५७ तमे वर्षे मङ्गलूरुनगरस्य नाशनं कृतवन्त:। १५५८ तमे वर्षे पुन: उल्लालं प्रति पुर्तगालदेशीय: आन्टोनियो नोरोन्ह: जनरल्-जोवा-पैक्सोटोस्य नेतृत्वे सैनिकान् प्रेषितवान्। अस्मिन्नवसरे ते उल्लालस्य कञ्चित् भागं ग्रहीतुं शक्तवन्त:। पुर्तगालदेशीयाः प्रासादं स्वाधीनं यदा कृतवन्त: तदा राज्ञी समीपस्थे यावनप्रार्थनास्थले आत्मानम् अगूहत्। किन्तु सा धैर्यच्युता न जाता।

तस्यां रात्रौ एव राज्ञी प्रतीकारं कृतवती। जनरल् पेक्सोटः रणरङ्गे एव मृतः। सप्ततिं सैनिकान् बन्धने स्थापितवती च । तस्मात् भीरुत्वं प्राप्य अन्ये पुर्तगालीया: गोवां प्रति पलायितवन्तः।

राज्ञ्या: युद्धसामर्थ्यं दृष्ट्वा विस्मिता: पुर्तगालीया: तदनु कुतन्त्रेण आक्रान्तुम् आरब्धवन्त:। १५८१ तमे वर्षे पुन: प्रभाते एव आन्तोनि डि नोरहस्य नेतृत्वे आक्रमणं कृतवन्त:।

प्रात:काले मन्दिरात् प्रत्यागच्छन्ती राज्ञी अनिरीक्षितपरिस्थितौ अपि झटिति अश्वमारुह्य युधि शत्रून् सम्मुखीकृतवती। शत्रुपक्षस्य अनेका: युद्धनौका: तया नाशिता:। राज्ञी व्रणिता। तस्या: पुत्र्यौ अपि मातृभूमे: रक्षणाय मातरम् अनुसृतवत्यौ।

केषाञ्चन देशद्रोहिणां साहाय्येन पुर्तगालीया: व्रणितां राज्ञीं बन्धने स्थापितवन्त:। एवं वीरा राज्ञी अब्बक्का भारतस्य स्वातन्त्र्यप्रदीपं शत्रो: आक्रमणभञ्जनात् रक्षयितुं प्रयतमाना स्वतन्त्रतारक्षणाय अन्यान् प्रेरयन्ती प्राणान् एव आहुतीकृतवती। राज्ञी अब्बक्काया: स्मरणार्थं कश्चन ऐतिहासिकः मङ्गलूरुसमीपस्थे बण्ट्वालजनपदे “तुलु-बदुकु” इति वस्तुसङ्ग्रहालयमेकं निर्मितवान्।

रणरङ्गे शूरत्वं निर्भीकत्वं च प्रदर्श्य तुलुजनानाम् अद्वितीया राज्ञी अब्बक्का “अभयराज्ञी” इति अन्वर्थनाम अपि प्राप्तवती।

******************


(पुनःकथनम् - विजयाभट्, Fremont, CA)

पद्मश्रीः जानकी आदिनागप्पः (१९२५-२०१४) (अखिला सुरेशः, Pittsburgh, PA)

श्रीमत्याः जानक्याः जन्म मलेयादेशे 1925 तमवर्षे कस्मिंश्चित् धनिककुटुम्बे अभवत् | एषा मलेय-भारतसमाजस्य स्थापकेषु अन्यतमा आसीत्|

मलेयाराज्यस्य स्वातन्त्र्यसङ्ग्रामे जानकीवर्या महत्वपूर्णं भागम् ऊढवती | नेताजिसुभाषचन्द्रबोसवर्यस्य भारतसेनायां नियुक्ता भूत्वा भारतदेशस्य स्वातन्त्र्यार्थं युद्धम् अकरोत् | यद्यपि धनिककुटुम्बे जाता तथापि वयसः अष्टादशे वर्षे एव बोसवर्यस्य सेनायां झांसीराज्ञीदलस्य (Jhansirani Regiment) उपसेनानायिका इति पदवीं प्राप्य सेवाम् अकरोत् |

तेषु दिनेषु बोसवर्यः भारतात् बहिः निर्गत्य जपानदेशस्य साहाय्येन आङ्ग्लशासकान् भारतदेशात् उन्मूलयितुं महतीं चमूं निर्मितवान् | यदा सः मलेयाप्रदेशम् अगच्छत् तदा तत्रस्थाः भारतीयाः तस्मै बहूनि आभरणानि धनानि च दत्त्वा साहाय्यम् अकुर्वन् | तदा श्रीमत्याः जानक्याः परिचयः बोसवर्येण सह अभवत् | तस्य सेनायां सेवां कर्तुं तया निश्चयः कृतः | आरम्भे तु तस्याः कुटुम्बसदस्याः सर्वे अस्मिन् निश्चये विरोधं प्रकटितवन्तः| विशेषतया जानक्याः पित्रा एषः निर्णयः न अङ्गीकृतः |

द्वितीयमहायुद्धस्य अनन्तरं जानकीवर्या स्वस्य जीवनं समाजसेवने यापितवती | 1946 तमवर्षे John Tivy वर्येण मिलित्वा Malaysian Indian Congress इत्येतस्य समाजस्य निर्माणम् अकरोत् | तस्मिन् वर्षे एव तस्याः टान्श्रि आदिनागप्पवर्येण सह परिचयः अभवत् | 1949 तमवर्षे तयोः विवाहः जातः | 1980 तमवर्षे मलेयादेशस्य राज्यसभायां स्थानं प्राप्य 1986 पर्यन्तं सेवाम् अकुरुत |

भारतस्वातन्त्र्यसङ्ग्रामे जानकीवर्यायाः सेवा तु श्लाघनीया | श्रीमतीजानक्याः सेवाम् अभिज्ञाय 1997 तमवर्षे भारतसर्वकारेण देहलीनगरे सा पद्मश्रीप्रशस्त्या पुरस्कृता | एतं पुरस्कारं प्राप्तुं श्रीमती जानकी एव मलेयादेशस्य प्रथमा नारी आसीत् |


******************


(विकिपीडीयालेखस्य भावानुवादः)

किरणबाला बोरा (विजयाभट्, Fremont, CA)

आत्मसमर्पणभावेन भारताम्बायाः सेवाम् अन्तिमश्वासपर्यन्तं कृतवतीषु, स्वातन्त्र्यान्दोलने आङ्ग्लानाम् अभिमुखं भागग्रहीत्रीषु महिलासु इयं किरणबाला अद्वितीया एव |

असमप्रदेशे १९०४ तमे संवत्सरे किरणबालाया: जन्म अभवत् । बाल्यकाले एव विवाहिता सा शालायां प्राथमिकतृतीयवर्गपर्यन्तम् एव विद्यां प्राप्तवती। किरणबालायाः पतिः सकीराम-लस्करः दीर्घकालं न जीवितवान्- विवाहात् परम् अचिरात् एव स: दैवाधीन: जात:| तस्मात् कारणात् किरणबालायाः पिता कमलचन्द्रः किरणबालां तस्याः नवजातशिशुं च स्वगृहम् आनीतवान् |

अस्मिन् समये इयं यौवनभिन्नशैशवा किरणबाला स्वातन्त्र्यसङ्ग्रामे आसक्तिं प्रदर्शितवती | अनन्तरं तया १९१९ तमवर्षात् आरभ्य १९४७ तमवर्षपर्यन्तं देशहिताय स्वातन्त्र्यसङ्ग्रामे भागः ऊढः |

१९२० तमे संवत्सरे जलियाँवालाबाग्-जनहत्याविषयं ज्ञातवत्याः तस्याः मनसि महात्मागान्धीप्रभृतीनां देशानायकानां परार्थघटकानां त्यागादयः महान्तं प्रभावम् अजनयत् | तदनु किरणबाला मन्दगत्या सङ्ग्रामे स्वपादं न्यस्तवती |

प्रथमतया काङ्ग्रेस्- पक्षकृते “निधिसञ्चयनकार्यं किरणबालय आरब्धम् | काङ्ग्रेस्जनाय तस्याः एतत् कार्यं समयोचितोपकार: एव आसीत् | तस्याः कृते अपि अनेकैः नायकैः सह मेलितुम् अवकाशः अलभ्य | तेषु नायकेषु अन्यतमा आसीत् चन्द्रप्रभा-सैकियानि इति असमप्रदेशस्य काचित् क्रान्तिकारी लेखिका | सा स्वातन्त्र्यसङ्ग्रामस्य महायोधिनी च | अग्रे तया सह किरणबालायाः सम्पर्कः बहुधा वर्धितः |

चन्द्रप्रभाया: सम्पर्केण प्राप्तप्रेरणा किरणबाला इतोपि अधिकतया स्वातन्त्र्यसङ्ग्रामे भागं वोढुम् आरब्धवती। तस्याः नेतृत्वे किरणबालायाः देशहितकराणि सामाजिककार्याणि अधिकानि अभवन् | प्रथमतया किरणबाला असहकार-आन्दोलने (non-cooperation movement) स्वां संयोजितवती | वैदेशिकवस्तुबहिष्करणाय सर्वान् प्रेरितवती। किरणबाला स्वकीये गृहे विद्यमानानि सर्वाणि वैदेशिकवस्तूनि ध्वंसन्ती अन्यान् अपि विदेशनिर्मितानि वस्तूनि बहि: क्षेप्तुं प्रेरितवती | किं बहुना? किरणबालया स्वगृहे एव वस्त्रवयनञ्च आरब्धम् !

किरणबालाया: सामाजिककार्येषु अन्यतमं कार्यम् आसीत् मादकवस्तूनां (drugs etc.) सम्पूर्णतया निर्मूलनम् | ‘अहिफेनं भङ्गी’ च नाम्नो: मादकवस्तुनोः निवारणाय तया बहुधा प्रयत्यते स्म।

तत्कालीनाः सामाजिकसमस्याः परिहर्तुं किरणबालया विशेषतया अवधानं दत्तम् आसीत् | बालविवाहपद्धतिः, सतिसहगमनविधिः, महिलानां कृते विद्याभ्यासः - इत्यादीन् विषयान् अधिकृत्य सर्वान् उद्बोधयन्ती किरणबाला जनमानसं परिवर्तयन्ती आसीत् |

१९२९ तमे वर्षे लाहोर-काङ्ग्रेस्-सभया उद्घोषितम् -- जनवरी २६, १९३० तमं दिनाङ्कं ‘पूर्णस्वारज्यदिनम्’ इति । तस्मिन् स्वराज्यदिनाचरणे विदेशीयशासनस्य उत्पाटनाय किरणबालया सह चतुश्शताधिका: महिला: उत्पत्योत्पत्य उपस्थिता:। एतस्मात् क्रुद्धा: आङ्ग्लशासका: काश्चन महिला: भृशम् अताडयन्।

१९३० तमवर्षात् आरभ्य अनेकवारं किरणबालया कारागारः गतः | कस्मिंश्चित् अवसरे यदा सा कारागारे आसीत् तदा सा अतीव रुग्णा जाता | तस्मात् कारणात् चतुर्मासानन्तरं सा कारागारतः विमोचनं प्राप्तवती | तदनु १९३२ तमे वर्षे आङ्ग्ला: तां शिलाङ्गस्य कस्मिंश्चित् दारुणकारागारे स्थापितवन्तः | तथापि महन्ति कष्टानि सहमाना सा देशहिताय एव कार्यं कुर्वती आसीत् !

तस्मिन् समये एव तस्याः परिचयः अम्बिका-काकती-नाम्न्या: असमप्रदेशस्य स्वातन्त्र्ययोधिन्या सह जातः | अस्याः पुत्री दिवङ्गता आसीत् | अत: अम्बिकावर्यया किरणबाला स्वकीयं जामातरं प्रति ( सनत्-राम-बोरां प्रति) परिचायिता । तदनु अम्बिका द्वयो: विवाहप्रस्तावम् अपि अकरोत्। किरणबालायाः पिता अपि एतत् प्रस्तावं ससन्तोषम् अङ्गीकृत्य पुत्र्याः पुनर्विवाहम् अकरोत्|

सनत्-रामस्य पञ्च अपत्यानि आसन् | सर्वैः मिलित्वा किरणबाला स्वपुत्र्या साकं अविभक्ते बृहति नूतनकुटुबे जीवनम् आरब्धवती | सनत्-रामः “श्रीमन्त-शङ्करदेव” इति सङ्गस्य संस्थापकः आसीत् | तत्र आध्यात्मिकान् धार्मिकान् विषयान् बोधयन्तः आसन् इति कारणत: अनेके श्रोतारः तेषां गृहम् आगच्छन्ति स्म | ते सर्वे भक्ता: श्रद्धया एव सेव्यन्ते स्म किरणबालया | सनत्-रामः अपि तस्यै राजकीयविषयेषु अन्दोलनेषु स्वेच्छया भागं वोढुम् अवकाशं ददाति स्म |

१९३० तमे वर्षे गान्धीवर्येण आरब्धे ‘नागरिक-असहयोग-आन्दोलने (civil disobedience movement) किरणबालया भाग: गृहीत:। सा गृहं गृहम् एत्य सर्वान् आन्दोलनस्य उद्धेशं विवृणोति स्म | ‘लवणकरदानं’ (salt tax) बहिष्कर्तुम् उपदिशन्त्या तया स्वातन्त्रदेशस्य आवश्यकता बोधिता | एवम् स्वातन्त्र्यसङ्ग्रामे भागं वोढुम् अनेकान् प्रेरयन्ती आसीत् |

एवं सर्वेषु राजकीयकार्येषु निरता सती किरणबाला गृहकार्याणि अपि न परित्यक्तवती | गच्छता कालेन तस्याः इतोऽपि पञ्च अपत्यानि जातानि| अग्रे १९४२ तमे वर्षे किरणया ‘त्यज भारतम्” आन्दोलने (quit India movement) भागः गृहीतः | तया अनेकवारम् आङ्ग्लेभ्यः ताडनं च प्राप्तम् | किन्तु -भोगेश्वरी फुकनानी, लक्की हझारिका, तिलक देका-प्रभृतीनां महायोधकानां परार्थनिष्ठानां नष्टकष्टानि दृष्ट्वा प्राप्तप्रेरणा किरणबाला सर्वं परित्यज्य देशसंरक्षणाय रणरङ्गं प्रविष्टवती । भारतदेशं स्वतन्त्रं कर्तुं सा निरन्तरम् आन्दोलनम् अकरोत्। स्वातन्त्र्यप्राप्ते: अनन्तरं सार्वजनिकसेवायां तत्परा सा कर्तव्यानि कौटुम्बिककार्याणि अपि समापितवती। १९९३ तमे संवत्सरे जनवरी मासे ८ दिनाङ्के किरणबाला दिवङ्ता।

किरणबालाया: देशसेवाम् अभिनन्द्य राज्यसर्वकार: केन्द्रसर्वकार: च स्वातत्र्यसङ्ग्रामे भागग्रहीत्री इति तस्यै निवृत्तिवेतनञ्च अदत्ताम्।

इयम् असामान्या वीरा महिला अस्माकं प्रेरणदायिका ननु? यद्यपि सामान्यकुटुम्बे जाता, यद्यपि अधिका विद्या नासीत् तथापि किरणबाला स्वजीवनवाहिन्या: तरङ्गान् गौणीकृत्य देशसेवाम् एव लक्ष्यीकृतवती । प्रात:स्मरणीयासु अनौपम्यं स्थानं अस्या: ननु ? अस्माभि: अद्धा स्मरणीया एव एषा किरणबाला बोरा ।


(विकिपीडिया-लेखस्य अनुवादः)

******************

व.उ. चिदम्बरं पिळ्ळै (शारदा वरदराजन्, Dallas, TX)

द्विशतवर्षेभ्यः पूर्वं भारतदेशस्य निधिसमृद्ध्या आकृष्टाः आङ्ग्लेयाः वाणिज्यव्याजेन भारतं प्रविश्य कालक्रमेण सर्वाणि राज्यानि, संस्थानानि च एकैकशः कुयुक्त्या कवलीकृत्य समग्रं भारतदेशम् आक्रम्य स्वाधीनीकृतवन्तः इत्येतत् तु विश्वविदितम्। द्विशतवर्षाणि यावत् आङ्ग्लेयानां शासने दास्यवृत्तिं भजद्भिः भारतीयैः ब्रिटिष्-सर्वाधिकारस्य कारणात् कियन्तः क्लेशाः, अपमानतिरस्कारादयः अनुभूताः, सोढव्याश्च आसन्निति स्वातन्त्र्यसङ्ग्रामचरित्रस्य एकैकस्यापि पुटस्य पठनेन अवगम्यते ।

अस्माकं स्वातन्त्र्यप्राप्तिः, भारतात् आङ्ग्लेयानां निर्गमनं चैतत् सर्वं केवलम् एकस्य दिनस्य सम्भवो वा, क्रमेण पङ्क्तिशः सञ्जातसम्भवो वा न। भारतस्य एकैकस्मिन् कोणेऽपि गणनातीतैः नेतृभिः, देशभक्तैः, राजवंशीयैः, पण्डितैः, पामरैः, पुरुषैः, महिलाभिश्च आङ्ग्लशासन-विरुद्धं सामूहिकरीत्या अनवरतं धैर्येण, दृढसङ्कल्पेन, अतिमहता त्यागभावेन च कृतेन आन्दोलनेनैव भारतदेशस्य स्वातन्त्र्यं प्राप्तमिति सर्वे जानन्ति एव। गतपञ्चसप्ततिवर्षेभ्यः अस्माभिः आनन्देन अनुभूयमानस्य स्वातन्त्र्यफलस्य मूलकारणम् एतेषां त्यागिनां क्रान्तिवीराणां बलिदानं, आत्माहुतिः, धीरता चैव खलु?

भारतस्य स्वातन्त्र्यप्राप्तेः सप्तविंशतितमवार्षिकोत्सवः “अमृतोत्सवः” इति नाम्ना अस्मिन् वर्षे (२०२२) आवर्षम् आचर्यमाणः कश्चन महोत्सवः एव। “अमृताभियानम्-अमरवीरस्मरणम्” इति घोषवाक्ययुक्तेऽस्मिन्नवसरे तमिळुनाडुराज्यस्य कैश्चित् सुविख्यातैः धीरसङ्ग्रामवीरैः कृतस्य अविस्मरणीयान्दोलनस्य विषयपथे किञ्चित् चिन्त्यते।

व.उ. चिदम्बरं पिळ्ळै (व.उ.चि-Sept 1872-Nov 1936) तमिळुनाडु-तिरुनेल्वेलिप्रान्तस्य ओट्टपिडारं-ग्रामे वेळाळकुले १८७२ तमे वर्षे जातः। तीक्ष्णमतिः धीरश्च सः बाल्यवयसि एव गृहज्येष्ठैरुक्तानां पुराणेतिहासादीनां श्रवणेन ज्ञानवर्धनं, विविध-ग्रामीयक्रीडादिभिः शक्तिवर्धनञ्च प्राप्य सर्वकलानिपुणोऽभवत्। प्रौढशालाध्ययनं समाप्य सः तिरुच्चिरापळ्ळिनगरे न्यायशास्त्रं (Law) पठित्वा (१८९५) अधिवक्ता (न्यायवादी) चाभवत्।

१८९०-१९०० इत्यस्मिन् अवधौ बालगङ्गाधरतिलकः, लालालजपतिरायः इत्यादीनां नेतृत्वे भारतदेशीयकाङ्ग्रेस्-द्वारा भारतीयस्वातन्त्र्यार्थं कैश्चन देशभक्तैः कृतेन स्वदेशी-आन्दोलनेन प्रभावितः व.उ.चि तु सुब्रह्मण्यभारती , सुब्रह्मण्यशिवा इत्यनयोः सुप्रसिद्धदेशभक्तयोः साहचर्यं प्राप्य स्वातन्त्र्य-सङ्ग्रामे मुख्यभागमवहत् । सुब्रह्मण्यभारतीवर्यः, यः महान् कविः, लेखकः “विडुदलै/स्वातन्त्र्यम्” इ्त्यादीनां पत्रिकाणां प्रसिद्धसम्पादकश्च आसीत्, सः स्वरचितदेशभक्तिगीतैः, उत्तेजकप्रबन्धैः, प्रेरणात्मकभाषणैश्च जनान् उद्बोध्य जनबलं वर्धितवान्। सुब्रह्मण्यशिवा तु अत्युत्तमभाषणकारः, वाङ्निपुणः, जनानां स्फूर्तिदायकश्च आसीत्। वङ्गाळस्य विभजनानन्तरं (1905) चिदम्बरं पिळ्ळै(व.उ.चि) पूर्णतया देशीयकाङ्ग्रेस्-संस्थां प्रविश्य अतिविख्यातो जातः। जनहितार्थं तेन “धर्मसङ्घवयनसंस्था, मदरास् कृषिविज्ञानसंस्था, देशीयसङ्ग्रहालयः, देशाभिमानसङ्घः” इत्यादयः अनेकाः संस्थाः स्थापिताः।

आङ्ग्लेयानां नौकानिगमसंस्थायाः (BISNCo) जलवाणिज्यस्य, नौकाप्रवासविभागस्य च अतिमुख्यकेन्द्रं तु तूत्तुकुडि-नौकाशयः (tUttukkudi Harbor) एव आसीत्। संस्थेयं तु सर्वाधिकारेण भारतीयकर्मकरान् अतिरूक्षतया, दासत्वेन, निकृष्टभावेन च पश्यति स्म। धीरः व.उ.सि निर्भयेण आङ्ग्ल-सर्वाधिकारस्य प्रतिस्पर्धारीत्या, तूत्तुक्कुडि-तिरुनेल्वेलि-मधुरैनगराणां वणिक्समूहस्य, उद्यमशीलानां च साहाय्यं प्राप्य, केवलं दशलक्षरूप्यकाणां मूलधनेन स्वदेशीनौकानिगमं स्थापितवान्। एवं १९०६-अक्टोबर्-षोडशे दिनाङ्के Swadeshi Steam Navigation Company (SSNCo) इति नाम्ना जाता भारतीयसंस्थेयं ब्रिटिष्-अधिकारिणां कोपाग्नेः इन्धनमिव सञ्जाता। चिदम्बरस्य धीरता, देशसेवापरत्वं, मनोदार्ढ्यम् इत्यादिभिः प्रभाविताः जनाः ऐक्यभावेन तस्मै पूर्णं सहकारं दत्वा समग्रं तिरुनेल्वेलि-प्रान्तमेव मुख्यसङ्ग्रामभूमित्वेन परिवर्तितवन्तः।

आरम्भे स्वदेशीनिगमेन षालैन्-नौकासंस्थातः पट्टत्वेन (lease) नौका प्राप्ता चेदपि, आङ्ग्लैः वञ्चनया कृतेन निर्बन्धेन, सः पट्टः एव निरस्तोऽभवत्। धीरः चिदम्बरस्तु स्वकीयनौकाक्रयणार्थम् आभारतं पर्यटन् कथञ्चित् धनं सङ्गृह्य नौकाद्वयमक्रीणात्। अस्य प्रगतिमसहमानैः आङ्ग्लैः निश्शुल्कनौकाप्रवासः विहितश्चेदपि, भारतीयाः देशभक्त्या तं प्रकल्पं निराकृतवन्तः। आङ्ग्लवाणिज्यस्य प्राबल्यं, आङ्ग्ल-सर्वकारेण कृतान् सर्वविधविघ्नांश्चापि सम्मुखीकृत्य, स्वदेशीनौकासंस्थायाः कार्यं प्रचलितम्। “तमिळुनाडुनौकाप्रचालकः” (कप्पलोट्टिय तमिळन्) इति प्रसिद्धो जातः चिदम्बरः।

तदनु सार्वजनिकोत्साहस्य अभिवृद्ध्यर्थं सुब्रह्मण्यभारती-सुब्रह्मण्य शिवाभ्यां कृतं साहाय्यं चिदम्बरस्य कार्याणां सञ्जीवामृतायितम्। तूत्तुक्कुडि-नगरस्य विद्रुमकार्यशालायाम् (Coral Industry) ब्रिटिष्-निर्वाहकाः भारतीयकर्मकरान् सर्वदा कार्याधिक्यम्, अल्पवेतनम्, अनादरः इत्यादिभिः क्लेशयन्ति स्म। कर्मकराणां दुःस्थितिनिवारणार्थं, जीवनोद्धारणार्थं च, व.उ.चि कङ्कणबद्धोऽभवत्। तदनु आङ्ग्लानां सर्वाधिकारस्य विरुद्धं प्रतिभटनरीत्या (protest) कार्यस्थगनं कर्तुं चिदम्बरेण ते कर्मकराः प्रेरिताः। १९०८-फेब्रवरीमासे चालितेन अनेन प्रतिभटनेन दिष्ट्या निर्वाहकैः स्थलीयकर्मकराणाम् अनुयोगाः पूरिताः। तस्य प्रभावेण सर्वासु ऐरोप्यसंस्थास्वपि कर्मकराणं सौकर्याभिवृद्धिः सञ्जाता।

पुनः बिपिनचन्द्रपालस्य बन्धनविमुक्तिमुद्दिश्य कृतायां जनयात्रायां चिदम्बर-सुब्रह्मण्यशिवाभ्यां कृतेन स्फूर्तिदायकभाषणेन कलेक्टर्-विञ्चवर्यः अतीव उद्विग्नो जातः। विञ्चवर्यस्य आज्ञया न केवलं तयोः, किन्तु इतरप्रमुखदेशभक्तानामपि बन्धनं कृतम्। समग्रं तूत्तुक्कुडि-नगरमेव आग्रहेण संक्षोभेण च उद्गतम्। क्रान्तिवीरैः सर्वकार-कार्यालयाः सर्वे आक्रान्ताः। न्यायालयेन चिदम्बरस्य आजीवकारागृहवास-दण्डः विहितः। सः कोयम्बत्तूरु-कारागृहे हननापराधीव अतिक्लिष्टकार्येषु नियुक्तः, येन तस्य अत्यधिकं देहदौःस्थ्यं सञ्जातम्। ब्रिटिष्-आरक्षकाः तं तैलपेषणयन्त्रे (oil press) कर्षणवृषभमिव बद्ध्वा कशाभिघातेन बाधितवन्तः। उच्चन्यायालये तस्य शिक्षावधिः चतुर्वर्षाणां कारागृहवासः, षड्वर्षाणां बहिष्कारः(निर्वासनम्) इति न्यूनीकृतः। किन्तु तस्य न्यायवाद्यनुज्ञा (Lawyer’s license) निरस्ता।

१९११ -तमे वर्षे चिदम्बरस्य स्वदेशीनौकासंस्था ब्रिटिष्-सर्वकारेण अपाकृता, अन्यवणिग्भ्यः विक्रीता च। अन्ते १९१२-तमे वर्षे यदा सः कारागृहात् विमुक्तः, तस्य सर्वस्वं नष्टमासीत्। बहिष्कारदण्डस्य (निर्वासनस्य) कारणात् सः तिरुनेल्वेलिप्रान्ते वस्तुं न शक्तः। स्वपरिवारजनानां (८ अपत्यानि) पोषणाय सः चेन्नैनगरमगच्छत्। तत्रागतेन गान्धीवर्येण सह मिलित्वा, तदनु तेन सह पत्रव्यवहारं च कुर्वन् चिदम्बरः पुनः स्वातन्त्र्यसङ्ग्रामे भागं वहन् जनान् भृशं प्रेरितवान्। अतीव दारिद्र्यस्थितावपि सः धैर्यच्युतो नाभवत्, देशसेवां च नात्यजत्।

तत्पश्चात् चिदम्बरः कोविल्-पट्टिग्रामे एव वसन्, अतीव दारिद्र्यात्, ऋणभाराच्च बाधितस्सन्, जीवनार्थं तस्य सर्वाणि न्यायशास्त्र-पुस्तकान्यपि विक्रीतवान्। सः अतिधीरः, तीव्रदेशभक्तः, भारतमातृसेवानिरतः व.उ. चिदम्बरं पिळ्ळै, आजीवितं देशसेवामेव कुर्वन्, अन्ते तूत्तुक्कुडिनगरं गत्वा तस्य अन्तिमापेक्षानुसारं तूत्तुक्कुडिनगरस्य भारतदेशीयकाङ्ग्रेस्-कार्यालये एव, १९३६-तमवर्षस्य नवेम्बर्-मासस्य १८ दिनाङ्के, देशार्थमेव स्वप्राणानपि अर्पितवान्।

एवं सुप्रसिद्धनेता, देशसेवाधुरन्धरः व.उ.चिदम्बरं-पिल्लै भारतदेशस्य स्वातन्त्र्यसङ्ग्रामार्थं स्वोत्तरदानं (legacy) दत्वा अमरकीतिं प्राप्नोत्। यद्यपि सः भारतदेशस्य स्वातन्त्र्यप्राप्तेः दर्शनभाग्यं न प्राप्तवान्, तथापि तेन प्रेरिताः सेनानायकाः सहस्रशः देशसेवापरम्परामेव आरभ्य अग्रिम-सन्ततिजनान् इतोऽपि प्रेरयन्तः एव वर्तन्ते।

जयतु जयतु भारतम् !! जयतु भारतस्य स्वातन्त्र्यसङ्ग्रामवीराणाम् अविस्मरणीया उज्ज्वला अमरा च कीर्तिः !!


(विषयस्य विवरणानि विभिन्नपुस्तकेभ्यः, विकिपिडियातश्च सङ्गृहीतानि )

******************

लचित-बोर्फुकनः (केतनगोस्वामी, Atlanta, GA)

सप्तदशे शताब्दे भारतस्य असम-प्रदेशे अहोम-नामकं राज्यम् आसीत् । तत्रत्याः राजानः १७ वारं मुघलजनैः कृतान् आक्रमणान् निगृहीतवन्तः

अहोम-राज्यस्य सेनापतेः पुत्रः आसीत् लचितः बोर्फुकनः इति । सः वीरः योद्धा धार्मिकः च आसीत् । मातृभूमौ तस्य अत्यन्तम् प्रीतिः आस्था च । बाल्ये वयसि एव सः राजनीत्यां युद्धविद्यायां च निपुणः अभवत् ।


लचितः मुघलेभ्यः इटाखुलि नाम दुर्गं गृहीतवान् । अतः सः मुघलानां पुनराक्रमणम् आशङ्कितवान् । सः अहोम-राज्यस्य रक्षणार्थं सैनिक-बलं वर्धितवान् ।

लचितः पर्वतमय्याः भूम्याः साहाय्येन मुघल-सेनोपरि अनेक-वारं गुप्तम् आक्रमणं कृतवान् ।


एकवारं महत् युद्धं ब्रह्मपुत्रस्य तीरे प्राग्ज्योतिषपुर्याः (गुवाहाटी-नगरस्य) समीपे अभवत् । लचितः तदा अतीव अस्वस्थः आसीत् । तेन कारणेन तस्य सेना हतोत्साहा अभवत् । किन्तु वीरः लचितः अस्वस्थः सन् अपि युद्धे नौसेनायाः नेतृत्वं कृतवान् । तस्मिन् दिने तस्य सेना महाविजयम् प्राप्नोत् ।


ततःपरं मुघल-जनाः अहोम-राज्यस्य उपरि कदापि आक्रमणं न कृतवन्तः। लचित-बोरफुकनः १६७२ तमे वर्षे वीरगतिं प्राप्तवान् ।


अधुना तस्य स्मरणार्थं पुण्यपत्तनस्थे राष्ट्रिय-सुरक्षा-संस्थाने (National Defense Academy, खडकवासला-केन्द्रे) प्रतिवर्षं कस्मैचित् उत्तम-सैनिकाय “लचित-स्वर्णपदकं” प्रदीयते । भारत-देशेन प्रतिवर्षं नवम्बर २४ तमे दिने लचितदिवसः आचर्यते ।


लचितः बोर्फुकनः भारत-देशस्य असङ्ख्यातेषु वीरेषु अन्यतमः। वयं तं प्रणमाम।




(विषयस्य विवरणानि इतः सङ्गृहीतानि - https://satyameva-jayate.org/2010/11/24/lachit-barphukan/

https://www.hinduhumanrights.info/lachit-borphukan-a-great-unknown-son-of-sanatan-dharma/)

******************

राजा मार्ताण्डवर्मा (सुनील-चल्लप्पः, Chicago, IL)

भारतस्य चरित्रे सुवर्णलिप्या लिखितम् नाम अस्ति मार्ताण्डवर्ममहाराजस्य ( १७०६ - १७५८ )

आधुनिकस्य तिरुविताम्कूर्-प्रदेशस्य स्रष्टा, Dutch East India संस्थायाः उपरि जेता, एतादृशै: विशेषणै: प्रसिद्ध: अस्ति महाराज: अनिज़म् तिरुनाल् मार्ताण्डवर्मा।

Dutch East India संस्था (१६०२ - १७८०) (VOC इति तस्याः अपरं नाम) बृहती संस्था आसीत् ।

आङ्गलजनानाम् East India संस्थायाः अपेक्षया दशगुणिता शक्तिः अस्याः VOC संस्थायाः आसीत्।

विश्वे विद्यमानासु संस्थासु प्रबलतमा बृहत्तमा च आसीत् । एतस्याः एकस्याः संस्थायाः धनमूल्यम् अद्य विद्यमानानां विंशत्याः संस्थानां धनमूल्यसमम् आसीत् । एतस्याः युद्ध-नौकाः अपि आसन् । सुगन्धिद्रव्याणां व्यापारं लक्ष्यीकृत्य अनेकवारं तत्सम्बद्धेषु युद्धेषु अपि अन्तर्भूता एषा । बहुषु देशेषु प्रवर्तमाना संस्था एषा भारदेशस्य दक्षिणभागे कोच्चि-प्रदेशे अपि कार्यरता आसीत् ।


तिरुविताम्कूर्-प्रदेशस्य समीपे वेणाडु इति लघुराज्यस्य राजा आसीत् मार्ताण्डवर्मा।

गच्छता कालेन समीपराज्याणि आर्जयन् नूतनं तिरुविताम्कूर्-राज्यं तेन स्थापितम्।

तस्य राज्यस्य प्राबल्यम् दृष्ट्वा कोच्चिप्रदेशस्य VOC इत्येतस्य व्यापारे विघ्न: भवेत् इति संस्था अचिन्तयत्।

तस्याः अधिकारिभिः महाराजेन सह सन्धिनिमित्तं चर्चा आरब्धा । परन्तु संस्थायाः विषमां व्यवस्थाम् (प्रस्तावम्) अनङ्गीकृत्य महाराजेन युद्धार्थं निश्चयः कृतः । तस्मिन् काले अस्याः संस्थायाः पुरतः लघुराज्यस्य युद्धप्रख्यापनम् अचिन्तनीयम् आसीत्।


VOC संस्था कोच्चि-प्रदेशे उपलभ्यमानस्य सैन्यस्य साहाय्येन महाराजेन सह युद्धम् अकरोत्।

प्रथमयुद्धे महाराजस्य सैनिकनष्ट: जात:। सन्ध्यर्थं चर्चा पुनराब्धा।

एकस्मिन् दिने अहं युरोप्-उपभूखण्डस्य उपरि अपि आक्रमणम् करोमि इति उक्त्वा पुनः युद्धप्रख्यापनं कृतवान् वीरः महाराजः।

संस्थायाः साहाय्यार्थम् अन्यदेशतः अधिकं सैन्यम् युद्धार्थं आगतम्।

राजा स्वस्य सैन्यबलं विपुलीकृत्य कोलचल्प्रदेशे जायमाने द्वितीययुद्धे सम्पूर्णं विजयं प्राप्नोत्।

VOC सेनापतिः तिरुविताम्कूर्-कारागृहे बन्धित:


ततः Dutch East India संस्थायाः क्षयः आरब्धः।


आङ्गलजनानाम् East India संस्थायाः शक्तिः च अवर्धत ।


******************